वांछित मन्त्र चुनें

ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म । त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥

अंग्रेज़ी लिप्यंतरण

ye ceha pitaro ye ca neha yām̐ś ca vidma yām̐ u ca na pravidma | tvaṁ vettha yati te jātavedaḥ svadhābhir yajñaṁ sukṛtaṁ juṣasva ||

पद पाठ

ये । च॒ । इ॒ह । पि॒तरः॑ । ये । च॒ । न । इ॒ह । यान् । च॒ । वि॒द्म । यान् । ऊँ॒ इति॑ । च॒ । न । प्र॒ऽवि॒द्म । त्वम् । वे॒त्थ॒ । यति॑ । ते । जा॒त॒ऽवे॒दः॒ । स्व॒धाभिः॑ । य॒ज्ञम् । सुऽकृ॑तम् । जु॒ष॒स्व॒ ॥ १०.१५.१३

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:13 | अष्टक:7» अध्याय:6» वर्ग:19» मन्त्र:3 | मण्डल:10» अनुवाक:1» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये च पितरः-इह ये च न-इह यान् च विद्म यान्-उ च न प्रविद्म) जो सूर्यरश्मियाँ इस यज्ञगृह या यज्ञकाल में हैं या जो यहाँ नहीं हैं तथा जिन किरणों को प्रतिदिन उपयोग द्वारा जानते हैं अथवा जिनको हम नहीं भी जानते हैं, (जातवेदः-यति त्वं वेत्थ स्वधाभिः सुकृतं यज्ञं जुषस्व) उन सभी को हे अग्निदेव ! तू प्राप्त करता है अतएव उन सब में इस सुसम्पादित हमारे यज्ञ को अपनी धारणशक्तियों से पहुँचा दे ॥१३॥
भावार्थभाषाः - अग्नि में किया हुआ यज्ञ अपने घर, दूसरे के घर तथा वर्तमान समय और दूसरे समय एवं विज्ञात और अविज्ञात सूर्य की किरणों को प्राप्त होता है ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये च पितरः इह ये च न-इह यान्-च विद्म यान्-उ च न प्रविद्म) ये च पितरः सूर्यरश्मय इहात्राऽस्मद्गृहे ये च नेह नात्र याँश्च सूर्यरश्मीन् विद्म वयं जानीमो यान् उ-यानपि न प्रविद्म न जानीमः (जातवेदः-यति त्वं वेत्थ स्वधाभिः सुकृतं यज्ञं जुषस्व) हे जातेषु विद्यमानाग्ने ! यति-यावतस्त्वं वेत्थ लब्धवान् तान् सर्वानपि रश्मीन् स्वधाभिः स्वधारणशक्तिभिरिमं सुकृतं सुसम्पादितं यज्ञं प्रापय ॥१३॥